(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.189. अध्यायः 189
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरादीन्प्रति दानाग्निहोत्रमोक्षादिनिरूपकतार्क्ष्यसरस्वतीसंवादानुवादः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-189-0x(2377)(23183)
अत्रैव च सरस्वत्या गीतं परपुरंजय।
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ॥ 3-189-1(23184)
तार्क्ष्य उवाच। 3-189-2x(2378)
किंन श्रेयः पुरुषस्येह भद्रे
कथं कुर्वन्न च्यवते स्वधर्मात्।
आचक्ष्व मे चारुसर्वाङ्गि सर्वं
त्वया शिष्टो न च्यवेयं स्वधर्मात् ॥ 3-189-2(23185)
कथं चाग्निं जुहुयां पूजये वा
कस्मिन्काले केन धर्मो न नश्येत्।
एतत्सर्वं सुभगे प्रब्रवीहि
यथा लोकान्विरजाः संचरेयम् ॥ 3-189-3(23186)
मार्कण्डेय उवाच। 3-189-4x(2379)
एवं पृष्टा प्रीतियुक्तेन तेन
शुश्रूषुणा चोत्तमबुद्दियुक्तम्।
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च
सरस्वती वाक्यमिदं बभाषे ॥ 3-189-4(23187)
यो ब्रह्म जानाति यथोपदेशं
स्वाध्यायनित्यः शुचिरप्रमत्तः।
स वै पुरो देवलोकस्य गन्ता
सहामरैः प्राप्नुयात्प्रीतियोगम् ॥ 3-189-5(23188)
तत्र स्म रम्या विपुला विशोकाः
सुपुष्पिताः पुष्करिण्यः सुपुण्याः।
अकर्दमा मीनवत्यः सुतीर्था
हिरण्मयैरावृताः पुण्डरीकैः ॥ 3-189-6(23189)
तासां तीरेष्वासते पुण्यभाजो
महीयमानाः पृथगप्सरोभिः।
सुपुण्यगन्धाभिरलंकृताभि-
र्हिरण्यवर्णाभिरतीव हृष्टाः ॥ 3-189-7(23190)
परं लोकं गोप्रदास्त्वाप्नुवन्ति
दत्त्वाऽनड्वाहं सूर्यलोकं व्रजन्ति।
वासो दत्त्वा चान्द्रमसं तु लोकं
दत्त्वा हिरण्यममरत्वमेति ॥ 3-189-8(23191)
धेनुं दत्त्वा सुप्रमां साधुदोहां
कल्याणवत्सामपलायिनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावद्वर्षाण्यासते देवलोके ॥ 3-189-9(23192)
अनड्वाहं सुव्रतं यो ददाति
हलस्य वोढारमनन्तवीर्यम्।
धुरंधरं बलवन्तं युवानं
प्राप्नोति लोकान्दशधेनुदस्य ॥ 3-189-10(23193)
ददाति यो वै कपिलां सचैलां
कांस्योपदोहां द्रविणैरुत्तरीयैः।
तैस्तैर्गुणैः कामदुहाऽथ भूत्वा
नरं प्रदातारमुपैति नाकैः ॥ 3-189-11(23194)
यावन्ति रोमाणि भवन्ति धेन्वा-
स्तावत्फलं लभते गोप्रदाने।
पुत्रांसच् पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते परत्र ॥ 3-189-12(23195)
सदक्षिणां काञ्चनचारुशृङ्गीं
कांस्योपदोहां द्रविणैरुत्तरीयैः।
धेनुं तिलानां ददतो द्विजाय
लोका वसूनां सुलभा भवन्ति ॥ 3-189-13(23196)
स्वकर्मभिर्दानवसंनिरुद्धे
तीव्रान्धकारे नरके पतन्तम्।
महार्णवे नौरिव वातयुक्ता
दानं गवां तारयते परत्र ॥ 3-189-14(23197)
यो ब्राह्मदेयां तु ददाति कन्यां
भूमिप्रदानं च करोति विप्रे।
ददाति दानं विधिना च यश्च
स लोकमाप्नोति पुरंदरस्य ॥ 3-189-15(23198)
यः सप्तवर्षाणि जुहोति तार्क्ष्य
हव्यं त्वग्नौ नियतः साधुशीलः।
सप्तावरान्सप्तपूर्वान्पुनाति
पितामहानात्मना कर्मभिः स्वैः ॥ 3-189-16(23199)
तार्क्ष्य उवाच। 3-189-16x(2380)
किमग्निहोत्रस्य व्रतं पुराण-
माचक्ष्व मे पृच्तश्चारुरूपे।
त्वयाऽनुशिष्टोऽहमिहाद्य विद्यां
यदग्निहोत्रस्य व्रतं पुराणम् ॥ 3-189-17(23200)
सरस्वत्युवाच। 3-189-18x(2381)
न चाशुचिर्नाप्यनिर्णिक्तपाणि-
र्नाब्रह्मविज्जुहुयान्नाविपश्चित्।
बुभुत्सवः शुचिकामा हि देवा
नाश्रद्दधानाद्धि हविर्जुषन्ति ॥ 3-189-18(23201)
नाश्रोत्रियं देवहव्ये नियुञ्ज्या-
न्मोघं पुरा सिञ्चति तादृशो हि।
अपूर्णमश्रोत्रियमाह तार्क्ष्य
न वै तादृग्जुहुयादग्निहोत्रम् ॥ 3-189-19(23202)
रये वै कृशानुं जुह्वति श्रद्दधानाः
सत्यव्रता हुतशिष्टाशिनश्च।
गवां लोकं प्राप्यते पुण्यगन्धं
पश्यन्ति देवं परमं चापि सत्यम् ॥ 3-189-20(23203)
तार्क्ष्य उवाच। 3-189-21x(2382)
क्षेत्रज्ञभूतां परलोकभावे
कर्मोदये बुद्दिमभिप्रविष्टाम्।
प्रज्ञां च देवीं सुभगे विमृश्य
पृच्छामि त्वां का ह्यसि चारुरूपे ॥ 3-189-21(23204)
सरस्वत्युवाच। 3-189-22x(2383)
अग्निहोत्रादहमभ्यागताऽस्मि
विप्रर्षभाणां संशयच्छेदनाय।
त्वत्संयोगादहमेतदब्रुवं
भावे स्थिता तथ्यमर्थं यथावत् ॥ 3-189-22(23205)
तार्क्ष्य उवाच। 3-189-23x(2384)
न हि त्वया सदृशी काचिदस्ति
विभ्राजसे ह्यतिमात्रं यथा श्रीः।
रूपं च ते दिव्यमनन्तकान्ति
प्रज्ञां च देवीं सुभगे बिभर्षि ॥ 3-189-23(23206)
सरस्वत्युवाच। 3-189-24x(2385)
श्रेष्ठानि यानि द्विपदांवरिष्ठ
यज्ञेषु विद्वन्नुपपादयन्ति।
तैरेव चाहं संप्रवृद्धा भवामि
चाप्यायिता रूपवती च विप्र ॥ 3-189-24(23207)
यच्चापि पात्रमुपयुज्यते ह
वानस्पत्यमायसं पार्थिवं वा।
दिव्येन रूपेण प्रज्ञया च
तेनैव सिद्धिरिति विद्धि विद्वन् ॥ 3-189-25(23208)
तार्क्ष्य उवाच। 3-189-26x(2386)
इदं श्रेयः परमं मन्यमाना
व्यायच्छन्ते मुनयः संप्रतीताः।
आचक्ष्व मे तं परमं विशोकं
मोक्षं परं यं प्रविशन्ति धीराः।
साङ्ख्या योगाः परमं यं विदन्ति
परं पुराणं तमहं न वेद्मि ॥ 3-189-26(23209)
सरस्वत्युवाच। 3-189-27x(2387)
तं वै परं वेदविदः प्रपन्नाः
परं परेभ्यः प्रथितं पुराणम्।
स्वाध्यायदानव्रतपुण्ययोगै-
स्तपोधना वीतशोका विमुक्ताः ॥ 3-189-27(23210)
तस्याथ मध्ये वेतसः पुण्यगन्धः
सहस्रशाखो विपुलो विभाति।
तस्य मूलात्सरितः प्रस्रवन्ति
मधूदकप्रस्रवणाः सुपुण्याः ॥ 3-189-28(23211)
शाखांशाखां महानद्यः संयान्ति सिकताशयाः।
धानापूपा मांसशाकाः सदापायसकर्दमाः ॥ 3-189-29(23212)
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः।
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ॥ 3-189-30(23213)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-189-8 अनड्वाहं वृषभम् ॥ 3-189-11 उत्तरीयैः पश्चाद्भवैर्दक्षिणादिभिर्द्रव्यैः सहिताम् ॥ 3-189-15 ब्राह्मदेयां गृह्योक्तेन विधिना देयाम् ॥ 3-189-19 आह वेद इति शेषः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.