|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.189. अध्यायः 189
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरादीन्प्रति दानाग्निहोत्रमोक्षादिनिरूपकतार्क्ष्यसरस्वतीसंवादानुवादः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-189-0x(2377)(23183)
अत्रैव च सरस्वत्या गीतं परपुरंजय।
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ॥ 3-189-1(23184)
तार्क्ष्य उवाच। 3-189-2x(2378)
किंन श्रेयः पुरुषस्येह भद्रे
कथं कुर्वन्न च्यवते स्वधर्मात्।
आचक्ष्व मे चारुसर्वाङ्गि सर्वं
त्वया शिष्टो न च्यवेयं स्वधर्मात् ॥ 3-189-2(23185)
कथं चाग्निं जुहुयां पूजये वा
कस्मिन्काले केन धर्मो न नश्येत्।
एतत्सर्वं सुभगे प्रब्रवीहि
यथा लोकान्विरजाः संचरेयम् ॥ 3-189-3(23186)
मार्कण्डेय उवाच। 3-189-4x(2379)
एवं पृष्टा प्रीतियुक्तेन तेन
शुश्रूषुणा चोत्तमबुद्दियुक्तम्।
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च
सरस्वती वाक्यमिदं बभाषे ॥ 3-189-4(23187)
यो ब्रह्म जानाति यथोपदेशं
स्वाध्यायनित्यः शुचिरप्रमत्तः।
स वै पुरो देवलोकस्य गन्ता
सहामरैः प्राप्नुयात्प्रीतियोगम् ॥ 3-189-5(23188)
तत्र स्म रम्या विपुला विशोकाः
सुपुष्पिताः पुष्करिण्यः सुपुण्याः।
अकर्दमा मीनवत्यः सुतीर्था
हिरण्मयैरावृताः पुण्डरीकैः ॥ 3-189-6(23189)
तासां तीरेष्वासते पुण्यभाजो
महीयमानाः पृथगप्सरोभिः।
सुपुण्यगन्धाभिरलंकृताभि-
र्हिरण्यवर्णाभिरतीव हृष्टाः ॥ 3-189-7(23190)
परं लोकं गोप्रदास्त्वाप्नुवन्ति
दत्त्वाऽनड्वाहं सूर्यलोकं व्रजन्ति।
वासो दत्त्वा चान्द्रमसं तु लोकं
दत्त्वा हिरण्यममरत्वमेति ॥ 3-189-8(23191)
धेनुं दत्त्वा सुप्रमां साधुदोहां
कल्याणवत्सामपलायिनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावद्वर्षाण्यासते देवलोके ॥ 3-189-9(23192)
अनड्वाहं सुव्रतं यो ददाति
हलस्य वोढारमनन्तवीर्यम्।
धुरंधरं बलवन्तं युवानं
प्राप्नोति लोकान्दशधेनुदस्य ॥ 3-189-10(23193)
ददाति यो वै कपिलां सचैलां
कांस्योपदोहां द्रविणैरुत्तरीयैः।
तैस्तैर्गुणैः कामदुहाऽथ भूत्वा
नरं प्रदातारमुपैति नाकैः ॥ 3-189-11(23194)
यावन्ति रोमाणि भवन्ति धेन्वा-
स्तावत्फलं लभते गोप्रदाने।
पुत्रांसच् पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते परत्र ॥ 3-189-12(23195)
सदक्षिणां काञ्चनचारुशृङ्गीं
कांस्योपदोहां द्रविणैरुत्तरीयैः।
धेनुं तिलानां ददतो द्विजाय
लोका वसूनां सुलभा भवन्ति ॥ 3-189-13(23196)
स्वकर्मभिर्दानवसंनिरुद्धे
तीव्रान्धकारे नरके पतन्तम्।
महार्णवे नौरिव वातयुक्ता
दानं गवां तारयते परत्र ॥ 3-189-14(23197)
यो ब्राह्मदेयां तु ददाति कन्यां
भूमिप्रदानं च करोति विप्रे।
ददाति दानं विधिना च यश्च
स लोकमाप्नोति पुरंदरस्य ॥ 3-189-15(23198)
यः सप्तवर्षाणि जुहोति तार्क्ष्य
हव्यं त्वग्नौ नियतः साधुशीलः।
सप्तावरान्सप्तपूर्वान्पुनाति
पितामहानात्मना कर्मभिः स्वैः ॥ 3-189-16(23199)
तार्क्ष्य उवाच। 3-189-16x(2380)
किमग्निहोत्रस्य व्रतं पुराण-
माचक्ष्व मे पृच्तश्चारुरूपे।
त्वयाऽनुशिष्टोऽहमिहाद्य विद्यां
यदग्निहोत्रस्य व्रतं पुराणम् ॥ 3-189-17(23200)
सरस्वत्युवाच। 3-189-18x(2381)
न चाशुचिर्नाप्यनिर्णिक्तपाणि-
र्नाब्रह्मविज्जुहुयान्नाविपश्चित्।
बुभुत्सवः शुचिकामा हि देवा
नाश्रद्दधानाद्धि हविर्जुषन्ति ॥ 3-189-18(23201)
नाश्रोत्रियं देवहव्ये नियुञ्ज्या-
न्मोघं पुरा सिञ्चति तादृशो हि।
अपूर्णमश्रोत्रियमाह तार्क्ष्य
न वै तादृग्जुहुयादग्निहोत्रम् ॥ 3-189-19(23202)
रये वै कृशानुं जुह्वति श्रद्दधानाः
सत्यव्रता हुतशिष्टाशिनश्च।
गवां लोकं प्राप्यते पुण्यगन्धं
पश्यन्ति देवं परमं चापि सत्यम् ॥ 3-189-20(23203)
तार्क्ष्य उवाच। 3-189-21x(2382)
क्षेत्रज्ञभूतां परलोकभावे
कर्मोदये बुद्दिमभिप्रविष्टाम्।
प्रज्ञां च देवीं सुभगे विमृश्य
पृच्छामि त्वां का ह्यसि चारुरूपे ॥ 3-189-21(23204)
सरस्वत्युवाच। 3-189-22x(2383)
अग्निहोत्रादहमभ्यागताऽस्मि
विप्रर्षभाणां संशयच्छेदनाय।
त्वत्संयोगादहमेतदब्रुवं
भावे स्थिता तथ्यमर्थं यथावत् ॥ 3-189-22(23205)
तार्क्ष्य उवाच। 3-189-23x(2384)
न हि त्वया सदृशी काचिदस्ति
विभ्राजसे ह्यतिमात्रं यथा श्रीः।
रूपं च ते दिव्यमनन्तकान्ति
प्रज्ञां च देवीं सुभगे बिभर्षि ॥ 3-189-23(23206)
सरस्वत्युवाच। 3-189-24x(2385)
श्रेष्ठानि यानि द्विपदांवरिष्ठ
यज्ञेषु विद्वन्नुपपादयन्ति।
तैरेव चाहं संप्रवृद्धा भवामि
चाप्यायिता रूपवती च विप्र ॥ 3-189-24(23207)
यच्चापि पात्रमुपयुज्यते ह
वानस्पत्यमायसं पार्थिवं वा।
दिव्येन रूपेण प्रज्ञया च
तेनैव सिद्धिरिति विद्धि विद्वन् ॥ 3-189-25(23208)
तार्क्ष्य उवाच। 3-189-26x(2386)
इदं श्रेयः परमं मन्यमाना
व्यायच्छन्ते मुनयः संप्रतीताः।
आचक्ष्व मे तं परमं विशोकं
मोक्षं परं यं प्रविशन्ति धीराः।
साङ्ख्या योगाः परमं यं विदन्ति
परं पुराणं तमहं न वेद्मि ॥ 3-189-26(23209)
सरस्वत्युवाच। 3-189-27x(2387)
तं वै परं वेदविदः प्रपन्नाः
परं परेभ्यः प्रथितं पुराणम्।
स्वाध्यायदानव्रतपुण्ययोगै-
स्तपोधना वीतशोका विमुक्ताः ॥ 3-189-27(23210)
तस्याथ मध्ये वेतसः पुण्यगन्धः
सहस्रशाखो विपुलो विभाति।
तस्य मूलात्सरितः प्रस्रवन्ति
मधूदकप्रस्रवणाः सुपुण्याः ॥ 3-189-28(23211)
शाखांशाखां महानद्यः संयान्ति सिकताशयाः।
धानापूपा मांसशाकाः सदापायसकर्दमाः ॥ 3-189-29(23212)
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः।
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ॥ 3-189-30(23213)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-189-8 अनड्वाहं वृषभम् ॥ 3-189-11 उत्तरीयैः पश्चाद्भवैर्दक्षिणादिभिर्द्रव्यैः सहिताम् ॥ 3-189-15 ब्राह्मदेयां गृह्योक्तेन विधिना देयाम् ॥ 3-189-19 आह वेद इति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|